~~॥ मुद्गल पुराणे श्रीगणेश स्तोत्रं ॥~~
श्री गणेशाय नमः ।
स्कन्द उवाच :
नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असंप्रज्ञात मूर्ध्ने ते तयोर्योगमयाय च ॥
वामाङ्ग भ्रान्तिरूपात् सिद्धिसर्वप्रदप्रभो ।
भ्रान्तिधारकरूपाव बुद्धिस्ते दक्षिणाङ्ग ते ॥
मायासिद्धिस्तथादेवं मायिकोबुद्धिसंज्ञितः ।
तयोर्योगे गणेश ! त्वम् स्थितोऽसि नमोस्तुते ॥
जगद्-रूपोगतारष्ट नकारो ब्रह्मवाचकः
तयोर्योगे हि गणपो नाम तुभ्यम् नमोनमः ॥
चतुर्विधम् जगत्-सर्वम् ब्रह्मतत्त्वप्रदात्मकः ।
हस्ताश्चत्वार एवम् ते चतुर्भुज नमोऽस्तुते ॥
स्वसंवेद्यम् च यद्-ब्रहम तत्-तत् खेलकरो भवान् ।
तेन स्वानन्दवासी त्वम् स्वानन्दपतये नमः ॥
त्वम् त्वम् चरसि भक्तानाम् तेषाम् वृद्धि समस्थितः ।
चौरवत् तेन तै भूत्वै मूषको वाहनम् प्रभो ॥
जगति ब्रह्मणि स्थित्वा भोगान् भुन्क्ष्सि स्व-योगतः ।
जगद्भिर्ब्रह्मभिस्तेन तिष्ठितम् ज्ञाय तेन च ॥
चौरवद्-भोगकर्त्ता त्वम् तेन ते वाहनम् परम् ।
मूषको मूषकारूढो हेरम्बाय नमो नमः ॥
किम् स्तौमि त्वाम् गदाधीशः योगशान्तिधरम् परो ।
वेदादयोयुक्षान्तिम् अतो देवम् नमाम्यहम् ॥
इति स्तोत्रम् समाकर्ण्य गणेशस्तमुवाचतः ।
वरं ब्रूण महाभाग दास्यामि दुर्लभम् न ते ॥
त्वयाकृतमिदम् स्तोत्रम् योगशान्तिप्रदम् भवेत् ।
मया भक्तिकरं स्कन्द सर्वसिद्धिप्रदम् तथा ॥
यं यं इच्छसि तं तं वै दास्यमि स्तोत्रयन्त्रितः ।
पठते श्रुण्वते नित्यम् कार्त्तिकेय विशेषतः ॥
इति श्रीमुद्गलपुराणान्तर्वर्ती गणेशस्तोत्रं समाप्तम् ॥
I tried to find this shlok everywhere but with no luck until I found this website.
Thank you very much for posting this.
With Kind Regards
Rajesh Koul
Perth
animation to good that to in sanskrit…! hats off to u..!